युवमहोत्सवः


परिचयः : संस्कृतभाषायां निहितायाः भारतीयज्ञानपरम्परायाः प्रचाराय प्रसाराय च केन्द्रीयसंस्कृतविश्वविद्यालयस्य स्थापना कृता । वैश्विकस्तरे भारतस्य गरिमख्यापनक्षमस्य विश्वस्तरीयविश्वविद्यालयस्य स्वरूपेण केन्द्रीयसंस्कृतविश्वविद्यालयस्य परिवर्धनं, संस्कृतविद्यायाः समग्रशाखानां सर्वतोमुखविकासः च विश्वविद्यालयस्य लक्ष्यं विद्यते। विश्वविद्यालयस्य द्वादशपरिसराः, द्वाविंशतिः आदर्शमहाविद्यालयाः, चतस्रः शोधसंस्थाः, पञ्चाशदधिकाः संबद्धाः विद्यालयाः महाविद्यालयाश्च देशस्य विभिन्नेषु राज्येषु विलसन्ति। युवमहोत्सवस्य लक्ष्यम् विश्वविद्यालये अध्ययनरतानां छात्राणां कृते शैक्षिकविकासेन सह चित्रकलासु क्रीडासु नृत्यादिषु च स्वप्रतिभाप्रदर्शनाय प्रतिवर्षं स्पर्धात्मकः अयं युवमहोत्सवः विश्वविद्यालयेन देशस्य विभिन्नेषु स्थानेषु समायोज्यते। अद्यावधि विश्वविद्यालयेन एकदश युवमहोत्सवाः समायोजिताः। छात्राणां कृते स्वपाटव- प्रदर्शनाय प्रेरणा अवसरप्रदानं च तथा देशस्य विभिन्नकलानां भारतीयक्रीडानां च परिचयः, संस्कृतमयवातावरणनिर्माणम् अस्य लक्ष्यं विद्यते।
संभाव्यः परिणामः

1. क्रीडाकलादिक्षेत्रेषु संस्कृतच्छात्राणां प्रतिनिधित्वाय कौशलसंपादनम्।
2. भारतीयविश्वविद्यालयसंघेन (AIU) समायोज्यमानासु स्पर्धासु भागग्रहणाय अवसरः ।
3. भारतीयक्रीडानां कलानां च परिचयः।
















Copyright © 2023 Central Sanskrit University